शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्। शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥४॥
śunaṁ vāhāḥ śunaṁ naraḥ śunaṁ kṛṣatu lāṅgalam | śunaṁ varatrā badhyantāṁ śunam aṣṭrām ud iṅgaya ||
शु॒नम्। वा॒हाः। शु॒नम्। नरः॑। शु॒नम्। कृ॒ष॒तु॒। लाङ्ग॑लम्। शु॒नम्। व॒र॒त्राः। ब॑ध्य॒न्ताम्। शु॒नम्। अष्ट्रा॑म्। उत्॑। इ॒ङ्ग॒य॒ ॥४॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे कृषीवल ! यथा वाहाः शुनं गच्छन्तु नरः शुनं कुर्वन्तु लाङ्गलं शुनं कृषतु वरत्राः शुनं बध्यन्तां तथाऽष्ट्रां शुनमुदिङ्गय ॥४॥